मुख्यपृष्ठम् (original) (raw)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अद्यतनं सुभाषितम्

भीमं वनं भवति तस्य पुरं प्रधानं

सर्वो जनः सुजनतामुपयाति तस्य।
कृत्स्ना च भूर्भवति सन्निधिरत्नपूर्णा
यस्यास्ति पूर्वसुकृतं विपुलं नरस्य ॥

सु.भा. - दैवाख्यानम् (९६/७४)

यः मनुष्यः पूर्वस्मिन् जन्मनि अनेकानि सुकृतानि (पुण्यकर्माणि) कृतवान् सः अस्मिन् जन्मनि सर्वत्र सुखम् एव प्राप्नोति। नास्ति अत्र संशयः। तादृशः पुण्यवान् घोरं वनं प्रविशति चेदपि तद्वनं पत्तनमिव सर्वसौलभ्यदायकं भवति। अपि च ये ये तं पश्यन्ति ते सर्वे अपि तस्य विषये मृदु व्यवहरन्ति। किं बहुना, समग्रा भूमिः एव तस्य विषये सम्पद्युक्ता रत्नयुक्ता च भवति।

सहपरियोजनाः