ऋग्वेदः सूक्तं १०.१२५ - विकिस्रोतः (original) (raw)
‘अहम्' इत्यष्टर्चं त्रयोदशं सूक्तम् । अम्भृणस्य महर्षेर्दुहिता वाङ्नाम्नी ब्रह्मविदुषी स्वात्मानमस्तोत् । अतः सा ऋर्षिः । सच्चित्सुखात्मकः सर्वंगतः परमात्मा देवता । तेन ह्येषा तादात्म्यमनुभवन्ती सर्वजगद्रूपेण सर्वस्याधिष्ठानत्वेन चाहमेव सर्वं भवामीति स्वात्मानं स्तौति । द्वितीया जगती शिष्टाः सप्त त्रिष्टुभः । तथा चानुक्रान्तम्- अहमष्टौ वागाम्भृणी तुष्टावात्मानं द्वितीया जगती' इति । गतो विनियोगः ॥
अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमा॑दि॒त्यैरु॒त वि॒श्वदे॑वैः ।
अ॒हं मि॒त्रावरु॑णो॒भा बि॑भर्म्य॒हमि॑न्द्रा॒ग्नी अ॒हम॒श्विनो॒भा ॥१
अ॒हम् । रु॒द्रेभिः॑ । वसु॑ऽभिः । च॒रा॒मि॒ । अ॒हम् । आ॒दि॒त्यैः । उ॒त । वि॒श्वऽदे॑वैः ।
अ॒हम् । मि॒त्रावरु॑णा । उ॒भा । बि॒भ॒र्मि॒ । अ॒हम् । इ॒न्द्रा॒ग्नी इति॑ । अ॒हम् । अ॒श्विना॑ । उ॒भा ॥१
अहम् । रुद्रेभिः । वसुऽभिः । चरामि । अहम् । आदित्यैः । उत। विश्वऽदेवैः ।
अहम्। मित्रावरुणा । उभा । बिभर्भि । अहम् । इन्द्राग्नी इति । अहम् । अश्विना । उभा ॥ १ ॥
“अहं सूक्तस्य द्रष्ट्री वागाम्भृणी यद्ब्रह्म जगत्कारणं तद्रूपा भवन्ती "रुद्रेभिः रुद्रैरेकादशभिः । इत्थंभावे तृतीया । तदात्मना “चरामि । एवं “वसुभिः इत्यादौ तत्तदात्मना चरामति योज्यम् । तथा “मित्रावरुणा मित्रं च वरुणं च ॥ ‘ सुपां सुलुक्' इति द्वितीयाया आकारः ॥ "उभा उभौ अहम् एव ब्रह्मीभूता “बिभर्मि धारयामि। “इन्द्राग्नी अपि “अहम् एव धारयामि । “उभा उभौ “अश्विना अश्विनावपि “अहम् एव धारयामि। मयि हि सर्वं जगच्छुक्तौ रजतमिवाध्यस्तं सद्दृश्यते । माया सच जगदाकारेण विवर्तते । तादृश्या मायाया आधारत्वेनासङ्गस्यापि ब्रह्मण उक्तस्य सर्वस्योत्पतिः ॥
अ॒हं सोम॑माह॒नसं॑ बिभर्म्य॒हं त्वष्टा॑रमु॒त पू॒षणं॒ भग॑म् ।
अ॒हं द॑धामि॒ द्रवि॑णं ह॒विष्म॑ते सुप्रा॒व्ये॒३॒॑ यज॑मानाय सुन्व॒ते ॥२
अ॒हम् । सोम॑म् । आ॒ह॒नस॑म् । बि॒भ॒र्मि॒ । अ॒हम् । त्वष्टा॑रम् । उ॒त । पू॒षण॑म् । भग॑म् ।
अ॒हम् । द॒धा॒मि॒ । द्रवि॑णम् । ह॒विष्म॑ते । सु॒प्र॒ऽअ॒व्ये॑ । यज॑मानाय । सु॒न्व॒ते ॥२
अहम् । सोमम् । आहनसम् । बिभर्मि । अहम् । त्वष्टारम् । उत । पूषणम् । भगम् ।
अहम् । दधामि । द्रविणम् । हविष्मते । सुप्रऽअव्ये । यजमानाय । सुन्वते ।। २ ।।
“आहनसम् आहन्तव्यमभिषोतव्यं “सोमं यद्वा शत्रूणामाहन्तारं दिवि वर्तमानं देवतात्मानं सोमम् “अहम् एव बिभर्मि । तथा “त्वष्टारम् "उत अपि च “पूषणं “भगं च "अहम् एव बिभर्मि । तथा “हविष्मते हविर्भिर्युक्ताय “सुप्राव्ये शोभनं हविर्देवानां प्रापयित्रे तर्पयित्रे ॥ अवतेस्तर्पणार्थात् 'अवितॄस्तृतन्त्रिभ्य ईः' (उ. सू. ३. १५८) इतीकारप्रत्ययः । चतुर्थ्येकवचने यणि ‘उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य ' इति सुपः स्वरितत्वम् ॥ “सुन्वते सोमाभिषवं कुर्वते ॥ ‘ शतुरनुम: इति चतुर्थ्या उदात्तत्वम् ॥ ईदृशाय “यजमानाय “द्रविण धनं यागफलरूपम् “अहम् एव “दधामि धारयामि । एतच्च ब्रह्मणः फलदातृत्वं फलमत उपपत्तेः ' ( वे. सू. ३. २. ३८) इत्यधिकरणे भगवता भाष्यकारेण समर्थितम् ॥ (“आहनसः । ‘ आहननवन्तो वचनवन्तः । (निरु.४,१५ ) इति यास्कः -ऋ. . ९.७५.५ )
अ॒हं राष्ट्री॑ सं॒गम॑नी॒ वसू॑नां चिकि॒तुषी॑ प्रथ॒मा य॒ज्ञिया॑नाम् ।
तां मा॑ दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्रां॒ भूर्या॑वे॒शय॑न्तीम् ॥३
अ॒हम् । राष्ट्री॑ । स॒म्ऽगम॑नी । वसू॑नाम् । चि॒कि॒तुषी॑ । प्र॒थ॒मा । य॒ज्ञिया॑नाम् ।
ताम् । मा॒ । दे॒वाः । वि । अ॒द॒धुः॒ । पु॒रु॒ऽत्रा । भूरि॑ऽस्थात्राम् । भूरि॑ । आ॒ऽवे॒शय॑न्तीम् ॥३
अहम् । राष्ट्री । सम्ऽगमनी । वसूनाम् । चिकितुषी । प्रथमा । यज्ञियानाम् ।।
ताम् । मा। देवाः । वि । अदधुः । पुरुऽत्रा । भूरिऽस्थात्राम् । भूरि । आऽवेशयन्तीम् ॥३॥
“अहं राष्ट्री। ईश्वरनामैतत् । सर्वस्य जगत ईश्वरी । तथा “वसूनां धनानां “संगमनी संगमयित्र्युपासकानां प्रापयित्री । “चिकितुषी यत्साक्षात्कर्तव्यं परं ब्रह्म तज्ज्ञातवती स्वात्मतया साक्षात्कृतवती। अत एव "यज्ञियानां यज्ञार्हाणां “प्रथमा मुख्या। य एवंगुणविशिष्टाहं “तां मां “भूरिस्थात्रां बहुभावेन प्रपञ्चात्मनावतिष्ठमानां “भूरि भूरीणि बहूनि भूतजातानि “आवेशयन्तीं जीवभावेनात्मानं प्रवेशयन्तीमीदृशीं मां “पुरुत्रा बहुषु देशेषु “व्यदधुः "देवाः विदधति कुर्वन्ति । उक्तप्रकारेण वैश्वरूप्येणावस्थानात्। यद्यत्कुर्वन्ति तत्सर्वं मामेव कुर्वन्तीत्यर्थः ।
मया॒ सो अन्न॑मत्ति॒ यो वि॒पश्य॑ति॒ यः प्राणि॑ति॒ य ईं॑ शृ॒णोत्यु॒क्तम् ।
अ॒म॒न्तवो॒ मां त उप॑ क्षियन्ति श्रु॒धि श्रु॑त श्रद्धि॒वं ते॑ वदामि ॥४
मया॑ । सः । अन्न॑म् । अ॒त्ति॒ । यः । वि॒ऽपश्य॑ति । यः । प्राणि॑ति । यः । ई॒म् । शृ॒णोति॑ । उ॒क्तम् ।
अ॒म॒न्तवः॑ । माम् । ते । उप॑ । क्षि॒य॒न्ति॒ । श्रु॒धि । श्रु॒त॒ । श्र॒द्धि॒ऽवम् । ते॒ । व॒दा॒मि॒ ॥४
मया । सः । अन्नम् । अत्ति । यः । विऽपश्यति। यः । प्राणिति । यः । ईम् । शृणोति । उक्तम् ।
अमन्तवः । माम् । ते। उप । क्षियन्ति । श्रुधि । श्रुत । श्रद्धिऽवम् । ते । वदामि ॥ ४ ॥
"यः “अन्नमत्ति “सः भोक्तृशक्तिरूपया “मया एवान्नमत्ति । “यः च “विपश्यति । आलोकयतीत्यर्थः । “यः च “प्राणिति श्वासोच्छ्वासरूपं व्यापारं करोति सोऽपि मयैव । यश्च “उक्तं “शृणोति॥ ‘ श्रु श्रवणे । श्रुवः शृ च' इति श्रुप्रत्ययः । धातोः शृभावः ॥ य ईदृशीमन्तर्यामिरूपेण स्थितां “मां न जानन्ति “ते "अमन्तवः अमन्यमाना अजानन्तः “उप “क्षियन्ति । उपक्षीणाः संसारेण हीना भवन्ति ॥ मनेरौणादिकस्तुप्रत्ययः । नञ्समासे व्यत्ययेनान्तोदात्तत्वम् । यद्वा । भावे तुप्रत्ययः । ततो बहुव्रीहौ ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । माममन्तवो मद्विषयज्ञानरहिता इत्यर्थः ॥ हे “श्रुत विश्रुत सखे “श्रुधि । मया वक्ष्यमाणं शृणु। छान्दसो विकरणस्य लुक् । ' श्रुशृणुपॄकृवृभ्यः” इति हेर्धिभावः । किं तच्छ्रोतव्यम् । “श्रद्धिवम् । श्रद्धिः श्रद्धा । तया युक्तम् । श्रद्धायत्नेन लभ्यमित्यर्थः। श्रदन्तरोरुपसर्गवद्वृत्तिरिष्यते (पा.सू. १. ४.५७.२ ) इति श्रच्छब्दस्योपसर्गवद्वर्तमानत्वात् उपसर्गे घोः किः' इति किप्रत्ययः । मत्वर्थीयो वः ॥ ईदृशं ब्रह्मात्मकं वस्तु “ते तुभ्यं वदामि उपदिशामि ।।
अ॒हमे॒व स्व॒यमि॒दं व॑दामि॒ जुष्टं॑ दे॒वेभि॑रु॒त मानु॑षेभिः ।
यं का॒मये॒ तंत॑मु॒ग्रं कृ॑णोमि॒ तं ब्र॒ह्माणं॒ तमृषिं॒ तं सु॑मे॒धाम् ॥५
अ॒हम् । ए॒व । स्व॒यम् । इ॒दम् । व॒दा॒मि॒ । जुष्ट॑म् । दे॒वेभिः॑ । उ॒त । मानु॑षेभिः ।
यम् । का॒मये॑ । तम्ऽत॑म् । उ॒ग्रम् । कृ॒णो॒मि॒ । तम् । ब्र॒ह्माण॑म् । तम् । ऋषि॑म् । तम् । सु॒ऽमे॒धाम् ॥५
अहम् । एव । स्वयम् । इदम् । वदामि । जुष्टम् । देवेभिः । उत । मानुषेभिः ।
यम् । कामये। तम्ऽतम् । उग्रम् । कृणोमि । तम् । ब्रह्माणम् । तम् । ऋषिम्। तम् । सुऽमेधाम् ॥५॥
“अहं “स्वयम् “एव “इदं वस्तु ब्रह्मात्मकं “वदामि उपदिशामि। "देवेभिः देवैरिन्द्रादिभिरपि “जुष्टं सेवितम् । "उत अपि च "मानुषेभिः मनुष्यैरपि जुष्टम् । ईदग्वस्त्वात्मिकाहं “यं “कामये यं पुरुषं रक्षितुमहं वाञ्छामि “तंतं पुरुषम् “उग्रं कृणोमि । सर्वेभ्योऽधिकं करोमि। “तम् एव “ब्रह्माणं स्रष्टारं करोमि । “तम् एव “ऋषिम् अतीन्द्रियार्थदर्शिनं करोमि। “तम् एव “सुमेधां शोभनप्रज्ञं च करोमि ॥ ॥ ११ ॥
अ॒हं रु॒द्राय॒ धनु॒रा त॑नोमि ब्रह्म॒द्विषे॒ शर॑वे॒ हन्त॒वा उ॑ ।
अ॒हं जना॑य स॒मदं॑ कृणोम्य॒हं द्यावा॑पृथि॒वी आ वि॑वेश ॥६
अ॒हम् । रु॒द्राय॑ । धनुः॑ । आ । त॒नो॒मि॒ । ब्र॒ह्म॒ऽद्विषे॑ । शर॑वे । हन्त॒वै । ऊं॒ इति॑ ।
अ॒हम् । जना॑य । स॒ऽमद॑म् । कृ॒णो॒मि॒ । अ॒हम् । द्यावा॑पृथि॒वी इति॑ । आ । वि॒वे॒श॒ ॥६
अहम् । रुद्राय । धनुः । आ । तनोमि। ब्रह्मऽद्विषे । शरवे । हन्तवै । ऊँ इति ।
अहम् । जनय । सऽमदम् । कृणोमि । अहम् । द्यावापृथिवी इति । आ । विवेश ।। ६ ॥
पुरा त्रिपुरविजयसमये "रुद्राय रुद्रस्य । षष्ठ्यर्थे चतुर्थी । महादेवस्य “धनुः चापम् “अहम् “आ “तनोमि । ज्ययाततं करोमि । किमर्थम् । “ब्रह्मद्विषे ब्राह्मणानां द्वेष्टारं “शरवे शरुं हिंसकं त्रिपुरनिवासिनमसुरं “हन्तवै हन्तुं हिंसितुम् ॥ हन्तेः तुमर्थे सेसेन्” (पा. सू. ३.४.९ ) इति तवैप्रत्ययः । ‘ अन्तश्च तवै युगपत्' (पा. सू. ६. १. २०० ) इत्याद्यन्तयोर्युगपदुदात्तत्वम्। “शॄ हिंसायाम्' इत्यस्मात् ' शॄस्वृस्निहि इत्यादिना उप्रत्ययः । ‘ क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वाच्चतुर्थी ॥ उशब्दः पूरकः । “अहम् एव “समदम् । समानं माद्यन्त्यस्मिन्निति समत्संग्रामः । स्तोतृजनार्थं शत्रुभिः सह संग्राममहमेव “कृणोमि करोमि । तथा “द्यावापृथिवी दिवं च पृथिवीं चान्तर्यामितया “अहम् एव “आ “विवेश प्रविष्टवती ॥
अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन्मम॒ योनि॑र॒प्स्व१॒॑न्तः स॑मु॒द्रे ।
ततो॒ वि ति॑ष्ठे॒ भुव॒नानु॒ विश्वो॒तामूं द्यां व॒र्ष्मणोप॑ स्पृशामि ॥७
अ॒हम् । सु॒वे॒ । पि॒तर॑म् । अ॒स्य॒ । मू॒र्धन् । मम॑ । योनिः॑ । अ॒प्ऽसु । अ॒न्तरिति॑ । स॒मु॒द्रे ।
ततः॑ । वि । ति॒ष्ठे॒ । भुव॑ना । अनु॑ । विश्वा॑ । उ॒त । अ॒मूम् । द्याम् । व॒र्ष्मणा॑ । उप॑ । स्पृ॒शा॒मि॒ ॥७
अहम् । सुवे। पितरम् । अस्य । मूर्धन् । मम । योनिः । अप्ऽसु । अन्तरिति । समुद्रे ।
ततः । वि। तिष्ठे। भुवना । अनु । विश्वा । उत । अमूम् । द्याम् । वर्ष्मणा । उप । स्पृशामि ।।७।।
' द्यौः पिता' ( तै. ब्रा. ३.७.५.४) इति श्रुतेः पिता द्यौः । “पितरं दिवम् “अहं “सुवे प्रसुवे जनयामि। ‘आत्मन आकाशः संभूतः ' (तै. आ. ८. १) इति श्रुतेः । कुत्रेति तदाह। “अस्य परमात्मनः “मूर्धन् मूर्धन्युपरि । कारणभूते तस्मिन् हि वियदादिकार्यजातं सर्वं वर्तते तन्तुषु पट इव। “मम च “योनिः कारणं "समुद्रे । समुद्भवन्त्यस्माद्भूतजातानीति समुद्रः परमात्मा । तस्मिन् “अप्सु व्यापनशीलासु धीवृत्तिषु “अन्तः मध्ये यद्ब्रह्म चैतन्यं तन्मम कारणमित्यर्थः । यत ईदृग्भूता अहमस्मि “ततः हेतोः “विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि “अनु प्रविश्य "वि “तिष्ठे। विविधं व्याप्य तिष्ठामि ॥ ' समवप्रविभ्यः स्थः' ( पा. सू. १.३.२२) इत्यात्मनेपदम् ॥ “उत अपि च “अमूं “द्यां विप्रकृष्टदेशेऽवस्थितं स्वर्गलोकम् । उपलक्षणमेतत् । एतदुपलक्षितं कृत्स्नं विकारजातं “वर्ष्मणा कारणभूतेन मायात्मकेन मदीयेन देहेन “उप स्पृशामि। यद्वा । अस्य भूलोकस्य मूर्धन् मुर्धन्युपर्यहं पितरमाकाशं सुवे। समुदे जलधावप्सूदकेष्वन्तर्मध्ये मम योनिः कारणभूतोऽम्भृणाख्य ऋषिर्वर्तते । यद्वा । समुद्रेऽन्तरिक्षेऽप्स्वम्मयेषु देवशरीरेषु मम कारणभूतं ब्रह्म चैतन्यं वर्तते । ततोऽहं कारणात्मिका सती सर्वांणि भुवनानि व्याप्नोमि । अन्यत्समानम् ॥
अ॒हमे॒व वात॑ इव॒ प्र वा॑म्या॒रभ॑माणा॒ भुव॑नानि॒ विश्वा॑ ।
प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्यैताव॑ती महि॒ना सं ब॑भूव ॥८
अ॒हम् । ए॒व । वातः॑ऽइव । प्र । वा॒मि॒ । आ॒ऽरभ॑माणा । भुव॑नानि । विश्वा॑ ।
प॒रः । दि॒वा । प॒रः । ए॒ना । पृ॒थि॒व्या । ए॒ताव॑ती । म॒हि॒ना । सम् । ब॒भू॒व॒ ॥८
अहम् । एव । वातःऽइव । प्र । वामि । आऽरभमाणा। भुवनानि । विश्वा ।
परः । दिवा । परः । एना । पृथिव्या । एतावती । महिना । सम् । बभूव ॥ ८ ॥
“विश्वा विश्वानि सर्वाणि “भुवनानि भूतजातानि कार्याणि “आरभमाणा कारणरूपेणोत्पादयन्ती "अहमेव परेणानधिष्ठिता स्वयमेव “प्र “वामि प्रवर्ते । “वातइव यथा वातः परेणाप्रेरितः सन् स्वेच्छयैव प्रवाति तद्वत् । उक्तं सर्वं निगमयति । “परो “दिवा । पर इति सकारान्तं परस्तादित्यर्थे वर्तते यथा अध इत्यधस्तादर्थे । तद्योगे च तृतीया सर्वत्र दृश्यते। दिव आकाशस्य परस्तात् । “एना “पृथिव्या ॥ ‘ द्वितीयाटौः स्वेनः' (पा. सू. २, ४, ३४ ) इतीदम एनादेशः । अस्याः पृथिव्याः "परः परस्तात् । द्यावापृथिव्योरुपादानमुपलक्षणम् । एतदुपलक्षितात् सर्वस्मात् विकारजातात् परस्ताद्वर्तमाना सङ्गोदासीनकूटस्थब्रह्मचैतन्यरूपाहं “महिना महिम्ना "एतावती “सं “बभूव । एतच्छब्देनोक्तं सर्वं परामृश्यते । एतत्परिमाणमस्याः ॥ यत्तदेतेभ्यः परिमाणे°' ( पा. सू. ५. २. ३९) इति वतुप् ।“ आ सर्वनाम्नः ( पा. सू.६.३.९१ ) इत्यात्वम् ॥ सर्वजगदात्मनाहं संभूतास्मि । महच्छब्दादिमनिचि 'टेः' (पा. सू. ६. ४. १५५ ) इति टिलोपः । ततः तृतीयायामुदात्तनिवृत्तिस्वरेण तस्या उदात्तत्वम्। छन्दसो मलोपः ॥ ॥१२॥