Patanjali Yogasutra with and without Vedic Accents (original) (raw)
पातञ्जलयोगसूत्राणि सस्वर
॥ महर्षि पतञ्जलि प्रणीतं योगदर्शनम् ॥
॥ प्रथमोऽध्यायः ॥ ॥ समा॑धि-पा॒दः ॥
अ॒थ योगानु॑शास॒नम् ॥ १.१॥
योगश्चित्तवृत्ति॑निरो॒धः ॥ १.२॥
त॒दा द्र॒ष्टुः स्व॒रू॒पेऽ॑वस्था॒नम् ॥ १.३॥
वृत्तिसारूप्यमि॑तर॒त्र ॥ १.४॥
वृ॒त्त॒यः पञ्चतय्यः क्लि॑ष्टाऽक्लि॒ष्टाः ॥ १.५॥
प्र॒मा॒णवि॒प॒र्ययवि॒क॒ल्पनि॒द्रास्मृ॒तयः॑ ॥ १.६॥
प्र॒त्यक्षा॒नु॒माना॒ग॒माः प्र॑माणा॒नि ॥ १.७॥
वि॒प॒र्य॒यो मि॑थ्याज्ञा॒नमतद्रूप॑प्रति॒ष्ठम् ॥ १.८॥
श॒ब्दज्ञा॒ना॒नुपा॒ती वस्तुशून्यो॑ विक॒ल्पः ॥ १.९॥
अ॒भा॒वप्रत्ययालम्बना वृ॑त्तिर्नि॒द्रा ॥ १.१०॥
अ॒नु॒भूतविषया॒सम्प्रमोषः॑ स्मृ॒तिः ॥ १.११॥
अ॒भ्या॒सवै॒रा॒ग्या॒भ्यां त॑न्निरो॒धः ॥ १.१२॥
त॒त्र स्थि॒तौ य॑त्नोऽभ्या॒सः ॥ १.१३॥
स॒ तु दी॒र्घकालनै॒रन्तर्यस॒त्कारा॒सेवि॒तो दृ॑ढभू॒मिः ॥ १.१४॥
दृ॒ष्टानुश्रविकवि॒ष॒यवि॒तृष्णस्य व॒शीकारसंज्ञा॑ वैरा॒ग्यम् ॥ १.१५॥
त॒त्प॒रं पु॒रु॒षख्या॒तेर्गुण॑वैतृ॒ष्ण्यम् ॥ १.१६॥
वि॒त॒र्कवि॒चा॒रा॒नन्दा॒स्मि॒तारूपा॒नु॒ग॒मात् स॑म्प्रज्ञा॒तः ॥ १.१७॥ (स्मितास्वरूपानुगमात्, स्मितानुगमात्)
वि॒रा॒मप्रत्यया॒भ्या॒सपू॒र्वः सं॒स्कारशे॒षोऽ॒न्यः ॥ १.१८॥
भ॒वप्र॒त्य॒यो विदेहप्रकृति॑लया॒नाम् ॥ १.१९॥
श्र॒द्धावी॒र्यस्मृ॒तिस॒मा॒धिप्र॒ज्ञापूर्वक इ॑तरे॒षाम् ॥ १.२०॥
तीव्रसंवेगाना॑मास॒न्नः ॥ १.२१॥
मृ॒दुम॒ध्या॒धिमा॒त्र॒त्वात् ततोऽपि॑ विशे॒षः ॥ १.२२॥
ईश्वरप्रणि॑धाना॒द्वा ॥ १.२३॥
क्ले॒शक॒र्मवि॒पा॒का॒श॒यैर॒प॒रामृष्टः पुरुषविशेष॑ ईश्व॒रः ॥ १.२४॥
त॒त्र नि॒र॒तिश॒यं सर्वज्ञ॑बी॒जम् ॥ १.२५॥ (सर्वज्ञत्वबीजम्)
स पू॒र्वेषामपि गुरुः कालेनान॑वच्छे॒दात् ॥ १.२६॥
त॒स्य वा॒चकः प्र॒णवः॑ ॥ १.२७॥
तज्ज॒पस्तदर्थ॑भाव॒नम् ॥ १.२८॥
त॒तः प्र॒त्यक्चे॒त॒ना॒धिग॒मोऽ॒प्यन्तराया॑भाव॒श्च ॥ १.२९॥
व्या॒धिस्त्या॒नसं॒शयप्र॒मा॒दा॒लस्या॒वि॒र॒ति- भ्रा॒न्तिदर्शना॒ल॒ब्धभू॒मिकत्वा॒न॒व॒स्थि॒त॒त्वानि चि॒त्तवि॒क्षे॒पास्तेऽ॑न्तरा॒याः ॥ १.३०॥
दुः॒खदौ॒र्मनस्या॒ङ्ग॒मेजयत्वश्वा॒सप्र॒श्वा॒सा विक्षेपस॑हभु॒वः ॥ १.३१॥
तत्प्र॒ति॒षे॒धा॒र्थमेकत॑त्त्वाभ्या॒सः ॥ १.३२॥
मै॒त्रीक॒रु॒णामु॒दि॒तो॒पे॒क्षा॒णां सु॒खदुः॒खपुण्यापुण्यवि॑षया॒णां भा॒वनातश्चित्त॑प्रसा॒दनम् ॥ १.३३॥
प्र॒च्छर्दनवि॒धा॒र॒णा॒भ्यां वा॑ प्राण॒स्य ॥ १.३४॥
वि॒ष॒य॒व॒ती वा प्र॒वृ॒त्तिरु॒त्प॒न्ना म॒न॒सः स्थि॑तिनि॒ब॒न्धि॒नी ॥ १.३५॥
विशोका वा॑ ज्योतिष्म॒ती ॥ १.३६॥
वीतरागविषयं॑ वा चि॒त्तम् ॥ १.३७॥
स्व॒प्ननि॒द्राज्ञानाल॑म्बनं॒ वा ॥ १.३८॥
यथाभिमत॑ध्याना॒द्वा ॥ १.३९॥
प॒र॒माणु प॒र॒मम॒ह॒त्त्वान्तोऽस्य व॑शीका॒रः ॥ १.४०॥
क्षी॒णवृ॒त्तेर॒भिजातस्येव॑ म॒णेर्ग्र॒ही॒तृग्र॒ह॒णग्रा॒ह्येषु तत्स्थतद॒ञ्ज॒न॒ता स॑माप॒त्तिः ॥ १.४१॥
तत्र श॒ब्दा॒र्थज्ञा॒नवि॒क॒ल्पैः स॒ङ्की॒र्णा स॒वि॒त॒र्का स॑माप॒त्तिः ॥ १.४२॥
स्मृ॒ति॒प॒रि॒शु॒द्धौ स्व॒रू॒पशू॒न्येवा॒र्थमा॒त्रनि॒र्भा॒सा नि॑र्वित॒र्का ॥ १.४३॥
ए॒तयैव स॒वि॒चा॒रा नि॒र्वि॒चा॒रा च सूक्ष्मविषया॑ व्याख्या॒ता ॥ १.४४॥
सू॒क्ष्मवि॒ष॒य॒त्वं चालिङ्गपर्य॑वसा॒नम् ॥ १.४५॥
ता एव सबीजः॑ समा॒धिः ॥ १.४६॥
नि॒र्वि॒चारवै॒शा॒र॒द्येऽध्यात्म॑प्रसा॒दः ॥ १.४७॥
ऋ॒त॒म्भ॒रा त॑त्र प्र॒ज्ञा ॥ १.४८॥
श्रु॒ता॒नुमानप्र॒ज्ञा॒भ्याम॒न्यवि॒ष॒या विशे॑षार्थ॒त्वात् ॥ १.४९॥
त॒ज्जः॒ सं॒स्कारोऽन्यसंस्कारप्र॑तिब॒न्धी ॥ १.५०॥
त॒स्या॒पि नि॒रो॒धे स॒र्वनि॒रो॒धान्निर्बी॑जः समा॒धिः ॥ १.५१॥
॥ इति पतञ्जलि-विरचिते योग-सूत्रे प्रथमः समा॑धि-पा॒दः ॥
॥ द्वितीयोऽध्यायः ॥ ॥ साध॑न-पा॒दः ॥
त॒पः॒स्वा॒ध्यायेश्वरप्रणिधानानि क्रि॑यायो॒गः ॥ २.१॥
स॒मा॒धिभा॒वनार्थः क्ले॒शत॒नू॒क॒र॒णा॒र्थश्च ॥ २.२॥
अ॒वि॒द्या॒स्मि॒तारा॒गद्वे॒षा॒भि॒नि॒वे॒शाः क्ले॒शाः ॥ २.३॥
अ॒वि॒द्या क्षे॒त्रमु॑त्तरे॒षां प्र॒सु॒प्तत॒नुवि॒च्छि॒न्नो॑दारा॒णाम् ॥ २.४॥
अ॒नि॒त्या॒शु॒चिदुः॒खा॒ना॒त्मसु नि॒त्यशु॒चिसु॒खात्मख्याति॑र॒वि॒द्या ॥ २.५॥
दृ॒ग्द॒र्शनश॒क्त्योरे॒का॒त्म॒तेवा॑स्मि॒ता ॥ २.६॥
सु॒खा॒नुश॒यी रागः ॥ २.७॥
दुः॒खा॒नुश॒यी द्वेषः ॥ २.८॥
स्व॒र॒सवा॒ही वि॒दु॒षोऽपि त॒था॒रूढोऽ॒भि॒नि॒वेशः ॥ २.९॥
ते प्र॒तिप्र॒स॒वहे॒याः सू॒क्ष्माः ॥ २.१०॥
ध्या॒नहे॒यास्तद्वृत्तयः ॥ २.११॥
क्ले॒शमू॒लः क॒र्मा॒श॒यो दृ॒ष्टादृष्टजन्मवे॑दनी॒यः ॥ २.१२॥
स॑ति मू॒ले त॑द्विपा॒को जात्या॑युर्भो॒गाः ॥ २.१३॥
ते ह्ला॒दप॒रि॒ताप॑फ॒लाः पुण्यापुण्यहे॑तु॒त्वात् ॥ २.१४॥
प॒रि॒णामतापसं॒स्कार॑दुः॒खैर्गु॒णवृ॒त्तिवि॒रो॒धाच्च दुः॒खमेव सर्वं॑ विवे॒किनः ॥ २.१५॥
हे॒यं दुः॒खम॑नाग॒तम् ॥ २.१६॥
द्र॒ष्टृ॒दृश्य॒योः सं॒यो॒गो हे॑यहे॒तुः ॥ २.१७॥
प्र॒का॒शक्रि॒यास्थि॑तिशी॒लं भू॒तेन्द्रियात्म॒कं भो॒गापवर्गा॒र्थं दृ॒श्यम् ॥ २.१८॥
वि॒शे॒षाविशेषलि॒ङ्ग॒मा॒त्रालिङ्गानि गुण॑पर्वा॒णि ॥ २.१९॥
द्र॒ष्टा दृ॑शिमा॒त्रः शु॒द्धोऽपि प्र॒त्यया॑नुप॒श्यः ॥ २.२०॥
त॒द॒र्थ ए॒व दृ॑श्यस्या॒त्मा ॥ २.२१॥
कृ॒ता॒र्थं प्र॑ति न॒ष्टमप्य॒न॒ष्टं तदन्यसाधा॑रण॒त्वात् ॥ २.२२॥
स्वस्वा॒मिश॒क्त्योः स्व॒रू॒पोपलब्धिहेतुः सं॒योगः ॥ २.२३॥
त॒स्य हेतु॑र॒वि॒द्या ॥ २.२४॥
त॒द॒भा॒वात् सं॒यो॒गाभा॒वो हा॒नं तद्दृशेः᳚ कैव॒ल्यम् ॥ २.२५॥
वि॒वे॒कख्यातिर॒वि॒प्ल॒वा हा॑नोपा॒यः ॥ २.२६॥
त॒स्य स॒प्त॒धा प्रान्तभूमिः॑ प्र॒ज्ञा ॥ २.२७॥
योगाङ्गानु॑ष्ठा॒नाद॒शु॒द्धिक्ष॒ये ज्ञा॒नदी॒प्तिरा विवेक॑ख्या॒तेः ॥ २.२८॥
य॒मनि॒य॒मा॒सनप्रा॒णायामप्र॒त्या॒हारधा॒र॒णाध्या॒नस॒मा॒धयोऽष्टा॑वङ्गा॒नि ॥ २.२९॥
अ॒हिं॒सास॒त्या॒स्ते॒यब्र॒ह्म॒चर्या॒प॒रि॒ग्र॒हा य॒माः ॥ २.३०॥
जा॒तिदे॒शका॒लस॒म॒या॒न॒व॒च्छि॒न्नाः सा॒र्वभौ॒मा म॑हाव्र॒तम् ॥ २.३१॥
शौ॒चस॒न्तोषतपःस्वा॒ध्यायेश्वरप्रणिधानानि॑ निय॒माः ॥ २.३२॥
वि॒त॒र्कबा॒ध॒ने प्रतिपक्ष॑भाव॒नम् ॥ २.३३॥
वि॒त॒र्का हिं॒सादयः कृ॒तका॒रि॒ता॒नु॒मो॒दि॒ता लो॒भक्रो॒धमो॒हपू॒र्व॒का मृ॒दुम॒ध्या॒धि॒मा॒त्रा दुः॒खा॒ज्ञा॒ना॒न॒न्तफ॒ला इति प्र॒तिपक्ष॑भाव॒नम् ॥ २.३४॥
अ॒हिं॒साप्र॑तिष्ठा॒यां तत्स॒न्नि॒धौ वै॑रत्या॒गः ॥ २.३५॥
स॒त्यप्र॑तिष्ठा॒यां क्रि॒याफला॑श्रय॒त्वम् ॥ २.३६॥
अ॒स्ते॒यप्र॑तिष्ठा॒यां सर्वरत्नो॑पस्था॒नम् ॥ २.३७॥
ब्र॒ह्म॒च॒र्यप्र॑तिष्ठा॒यां वी॑र्यला॒भः ॥ २.३८॥
अप॒रि॒ग्र॒ह॒स्थै॒र्ये ज॒न्मक॒थ॒न्तासम्बोधः ॥ २.३९॥
शौ॒चात् स्वा॒ङ्गजु॒गु॒प्सा प॒रैर॑संस॒र्गः ॥ २.४०॥
स॒त्त्वशु॒द्धिसौ॒मनस्यै॒काग्र्येन्॒द्रियजया॒त्मदर्शनयोग्य॑त्वानि॒ च ॥ २.४१॥
स॒न्तो॒षादनुत्तमसु॑खला॒भः ॥ २.४२॥
का॒येन्द्रियसिद्धिर॒शु॒द्धिक्ष॒यात् तपसः ॥ २.४३॥
स्वा॒ध्या॒याद् इ॒ष्टदे॒व॒तासम्प्रयोगः ॥ २.४४॥
स॒मा॒धिसि॒द्धिरीश्वरप्र॑णिधा॒नात् ॥ २.४५॥
स्थिरसुख॑म् आस॒नम् ॥ २.४६॥
प्र॒य॒त्नशैथिल्यानन्तस॑माप॒त्ति॒भ्याम् ॥ २.४७॥
ततो द्व॒न्द्वान॑भिघा॒तः ॥ २.४८॥
त॒स्मिन्सति श्वा॒सप्र॒श्वा॒स॒योर्ग॒ति॒वि॒च्छेदः प्रा॑णाया॒मः ॥ २.४९॥
बा॒ह्या॒भ्यन्तरस्त॒म्भवृ॒त्तिर्दे॒शका॒लस॒ङ्ख्याभिः प॒रि॒दृ॒ष्टो दी॑र्घसू॒क्ष्मः ॥ २.५०॥
बा॒ह्या॒भ्यन्तरवि॒ष॒या॒क्षे॒पी चतुर्थः ॥ २.५१॥
त॒तः॒ क्षी॒य॒ते प्रकाशा॑वर॒णम् ॥ २.५२॥
धा॒र॒णासु च योग्यता॑ मन॒सः ॥ २.५३॥
स्ववि॒ष॒या॒स॒म्प्रयो॒गे चि॒त्त॒स्व॒रूपानुकार॑ इ॒वे॒न्द्रि॒या॒णां प्र॑त्याहा॒रः ॥ २.५४॥
त॒तः॒ प॒र॒मा वश्यते॑न्द्रिया॒णाम् ॥ २.५५॥
॥ इति पतञ्जलि-विरचिते योग-सूत्रे द्वितीयः साध॑न-पा॒दः ॥
॥ तृतीयोऽध्यायः ॥ ॥ विभू॑ति-पा॒दः ॥
दे॒शबन्धश्चित्तस्य॑ धार॒णा ॥ ३.१॥
त॒त्र प्रत्ययैकतान॑ता ध्या॒नम् ॥ ३.२॥
त॒दे॒वा॒र्थमा॒त्रनि॒र्भा॒सं स्व॒रूपशून्यमिव॑ समा॒धिः ॥ ३.३॥
त्रयमेकत्र॑ संय॒मः ॥ ३.४॥
तज्ज॒यात्प्र॑ज्ञालो॒कः ॥ ३.५॥
तस्य भूमि॑षु वि॒नि॒योगः ॥ ३.६॥
त्र॒यमन्तरङ्गं॑ पूर्वे॒भ्यः ॥ ३.७॥
त॒द॒पि ब॒हि॒र॒ङ्गं नि॑र्बीज॒स्य ॥ ३.८॥
व्यु॒त्थाननि॒रो॒धसं॒स्कार॒योर॒भि॒भ॒वप्रा॑दुर्भा॒वौ नि॒रो॒धक्षणचि॒त्तान्व॒यो निरोधप॑रिणा॒मः ॥ ३.९॥
तस्य प्र॒शान्तवाहिता॑ संस्का॒रात् ॥ ३.१०॥
स॒र्वार्थतै॒काग्र॒त॒योः क्ष॒यो॒द॒यौ चि॒त्तस्य स॒माधिप॑रिणा॒मः ॥ ३.११॥
त॒तः पु॒नः शा॒न्तोदि॒तौ तु॒ल्यप्र॒त्य॒यौ चि॒त्तस्यैकाग्रताप॑रिणा॒मः ॥ ३.१२॥
ए॒तेन भू॒तेन्द्रियेषु ध॒र्मल॒क्ष॒णा॒व॒स्थाप॒रि॒णा॒मा व्या॑ख्या॒ताः ॥ ३.१३॥
शा॒न्तो॒दि॒ता॒व्य॒प॒देश्यधर्मानुपा॑ती ध॒र्मी ॥ ३.१४॥
क्रमान्यत्वं परिणामान्य॑त्वे हे॒तुः ॥ ३.१५॥
प॒रि॒णा॒म॒त्र॒य॒सं॒य॒माद् अतीतानाग॑तज्ञा॒नम् ॥ ३.१६॥
श॒ब्दार्थप्र॒त्य॒या॒नामि॒त॒रेत॒राध्या॒सात् सङ्करस्तत्प्र॒वि॒भागसं॒य॒मात्सर्वभूतरु॑तज्ञा॒नम् ॥ ३.१७॥
सं॒स्कारसा॒क्षात्क॒र॒णात्पूर्वजा॑तिज्ञा॒नम् ॥ ३.१८॥
प्र॒त्ययस्य परचि॑त्तज्ञा॒नम् ॥ ३.१९॥
न॒ च तत्सा॒लम्ब॒नं तस्याविषयी॑भूत॒त्वात् ॥ ३.२०॥
का॒यरू॒पसं॒य॒मात्तद्ग्रा॒ह्यश॒क्तिस्त॒म्भे च॒क्षुःप्र॒का॒शास॒म्प्रयो॒गेऽ॑न्तर्धा॒नम् ॥ ३.२१॥
सो॒पक्र॒मं नि॒रु॒पक्र॒मं च कर्म तत्सं॒य॒माद॒प॒रा॒न्तज्ञा॒नमरि॑ष्टेभ्यो॒ वा ॥ ३.२२॥
मैत्र्यादि॑षु ब॒ला॒नि ॥ ३.२३॥
बलेषु हस्तिब॑लादी॒नि ॥ ३.२४॥
प्र॒वृ॒त्त्यालो॒कन्या॒सात्सूक्ष्मव्यवहितविप्रकृ॑ष्टज्ञा॒नम् ॥ ३.२५॥
भुवनज्ञानं सूर्ये॑ संय॒मात् ॥ ३.२६॥
चन्द्रे ताराव्यू॑हज्ञा॒नम् ॥ ३.२७॥
ध्रुवे तद्ग॑तिज्ञा॒नम् ॥ ३.२८॥
नाभिचक्रे कायव्यू॑हज्ञा॒नम् ॥ ३.२९॥
कण्ठकूपे क्षुत्पिपासा॑निवृ॒त्तिः ॥ ३.३०॥
कू॒र्मना॒ड्यां स्थै॒र्यम् ॥ ३.३१॥
मूर्धज्योतिषि सिद्ध॑दर्श॒नम् ॥ ३.३२॥
प्रा॒तिभा॒द्वा स॒र्वम् ॥ ३.३३॥
हृ॒द॒ये चि॑त्तसं॒वित् ॥ ३.३४॥
स॒त्त्वपु॒रु॒ष॒योर॒त्य॒न्तास॒ङ्कीर्ण॒योः प्र॒त्य॒यावि॒शे॒षो भोगः प॒रा॒र्थ॒त्वात्स्वा॒र्थसं॒य॒मात्पुरु॑षज्ञा॒नम् ॥ ३.३५॥
त॒तः प्रा॒तिभश्रा॒वणवे॒दना॒दर्शास्वादवार्ता॑ जाय॒न्ते ॥ ३.३६॥
ते स॒मा॒धावु॑पस॒र्गा व्युत्थाने॑ सिद्धयः ॥ ३.३७॥
ब॒न्ध॒का॒रणशै॒थि॒ल्यात्प्र॒चा॒रसं॒वेद॒नाच्च चि॒त्तस्य परशरी॑रावे॒शः ॥ ३.३८॥
उ॒दा॒नज॒याज्जलप॒ङ्कक॒ण्ट॒कादिष्व॒स॒ङ्ग उ॑त्क्रान्ति॒श्च ॥ ३.३९॥
समानज॑याज्ज्व॒ल॒नम् ॥ ३.४०॥ (समानजयात्प्रज्वलनम्)
श्रो॒त्राका॒श॒योः स॒म्ब॒न्धसं॒य॒माद्दिव्यं श्रो॒त्रम् ॥ ३.४१॥
का॒याका॒श॒योः स॒म्ब॒न्धसं॒य॒माल्ल॒घुतूल- स॒मा॒प॒त्तेश्चाका॑शग॒म॒नम् ॥ ३.४२॥
ब॒हि॒र॒क॒ल्पि॒ता वृत्तिर्म॒हा॒वि॒दे॒हा ततः प्र॒का॒शावरणक्षयः ॥ ३.४३॥
स्थू॒लस्व॒रू॒पसू॒क्ष्मा॒न्वया॒र्थ॒व॒त्त्वसं॒य॒माद्भू॑तज॒यः ॥ ३.४४॥
त॒तो॒ऽणि॒मादिप्रादुर्भावः का॒यस॒म्पत्त॒द्ध॒र्मानभि॑घात॒श्च ॥ ३.४५॥
रू॒पला॒वण्यबलव॒ज्रसं॒ह॒न॒न॒त्वानि का॑यस॒म्पत् ॥ ३.४६॥
ग्र॒ह॒णस्व॒रू॒पा॒स्मि॒ता॒न्वया॒र्थ॒व॒त्त्वसं॒य॒मादिन्द्रि॑यज॒यः ॥ ३.४७॥
त॒तो॒ म॒नो॒ज॒वि॒त्वं विकरणभावः प्रधान॑जय॒श्च ॥ ३.४८॥
स॒त्त्वपु॒रु॒षा॒न्य॒ताख्या॒तिमा॒त्रस्य स॒र्वभा॒वाधि॒ष्ठातृ॒त्वं सर्वज्ञा॑तृत्वं॒ च ॥ ३.४९॥
तद्वै॒राग्यादपि दोषबीजक्षये॑ कैव॒ल्यम् ॥ ३.५०॥
स्था॒न्यु॒प॒नि॒म॒न्त्र॒णे स॒ङ्गस्म॒याक॒र॒णं पुनरनिष्ट॑प्रस॒ङ्गात् ॥ ३.५१॥
क्ष॒णतत्क्र॒म॒योः सं॒य॒माद्विवेक॑जं ज्ञा॒नम् ॥ ३.५२॥
जा॒ति॒ल॒क्षणदे॒शैर॒न्य॒तान॒व॒च्छे॒दात् तु॒ल्य॒योस्त॒तः प्र॑तिप॒त्तिः ॥ ३.५३॥
ता॒र॒कं स॒र्ववि॒ष॒यं सर्वथा॑विष॒यम॒क्र॒मञ्चेति विवेक॑जं ज्ञा॒नम् ॥ ३.५४॥
स॒त्त्वपु॒रु॒ष॒योः शु॒द्धिसाम्ये॑ कैव॒ल्यमिति ॥ ३.५५॥
॥ इति पतञ्जलि-विरचिते योग-सूत्रे तृतीयो विभू॑ति-पा॒दः ॥
॥ चतुर्थोऽध्यायः ॥ ॥ कैव॑ल्य-पा॒दः ॥
ज॒न्मौ॒षधिम॒न्त्रत॒पःस॒मा॒धि॒जाः सि॒द्धयः॑ ॥ ४.१॥
जा॒त्यन्तरपरिणामः प्रकृ॑त्यापू॒रात् ॥ ४.२॥
नि॒मि॒त्त॒म॒प्र॒यो॒ज॒कं प्र॒कृ॒ती॒नां वरणभेदस्तु त॒तः क्षेत्रि॑क॒वत् ॥ ४.३॥
नि॒र्माणचि॒त्तान्यस्मि॑तामा॒त्रात् ॥ ४.४॥
प्र॒वृ॒त्तिभे॒दे प्र॒योज॒कं चित्तमेकम॑नेके॒षाम् ॥ ४.५॥
त॒त्र ध्या॒न॒जम॑नाश॒यम् ॥ ४.६॥
क॒र्माशु॒क्लाकृ॒ष्णं योगिनस्त्रिविधमि॑तरे॒षाम् ॥ ४.७॥
त॒तस्तद्वि॒पा॒कानुगु॒णा॒नामेवा॒भि॒व्यक्तिर्वा॑सना॒नाम् ॥ ४.८॥
जा॒तिदे॒शका॒लव्य॒व॒हि॒ता॒नामप्या॒नन्त॒र्यं स्मृ॒तिसं॒स्कार॒योरेक॑रूप॒त्वात् ॥ ४.९॥
ता॒साम॒ना॒दि॒त्वं चाशिषो॑ नित्य॒त्वात् ॥ ४.१०॥
हे॒तुफ॒ला॒श्रया॒लम्ब॒नैः स॒ङ्गृ॒ही॒त॒त्वादे॒षाम॒भा॒वे त॑दभा॒वः ॥ ४.११॥
अ॒ती॒तानागतं स्व॒रू॒पतोऽ॒स्त्य॒ध्वभेदा॑द्धर्मा॒णाम् ॥ ४.१२॥
ते व्य॒क्तसू॒क्ष्मा गु॑णात्मा॒नः ॥ ४.१३॥
प॒रि॒णा॒मै॒क॒त्वाद्व॑स्तुत॒त्त्वम् ॥ ४.१४॥
व॒स्तुसा॒म्ये चि॒त्तभे॒दात्त॒योर्विभ॑क्तः प॒न्थाः ॥ ४.१५॥
न चै॒कचि॒त्त॒त॒न्त्रं वस्तु तद॒प्र॒मा॒ण॒कं त॑दा किं॒ स्यात् ॥ ४.१६॥
तदु॒प॒रा॒गापे॒क्षि॒त्वाच्चि॒त्त॒स्य व॒स्तु ज्ञा॑ताज्ञा॒तम् ॥ ४.१७॥
स॒दा ज्ञा॒ताश्चि॒त्तवृत्तयस्तत्प्र॒भोः पुरुषस्यापरि॑णामि॒त्वात् ॥ ४.१८॥
न तत्स्वाभासं॑ दृश्य॒त्वात् ॥ ४.१९॥
एकसमये चोभयानव॑धार॒णम् ॥ ४.२०॥
चि॒त्ता॒न्तरदृ॒श्ये बु॒द्धिबु॒द्धेर॒ति॒प्रसङ्गः स्मृ॒तिस॑ङ्कर॒श्च ॥ ४.२१॥
चि॒तेर॒प्र॒ति॒स॒ङ्क्र॒मा॒यास्त॒दा॒का॒राप॒त्तौ स्वबुद्धिसं॑वेद॒नम् ॥ ४.२२॥
द्र॒ष्टृदृ॒श्यो॒प॒र॒क्तं चित्तं॑ सर्वा॒र्थम् ॥ ४.२३॥
त॒द॒स॒ङ्ख्येयवा॒सनाभिश्चि॒त्र॒म॒पि प॒रा॒र्थं संहत्य॑कारि॒त्वात् ॥ ४.२४॥
वि॒शे॒षदर्शिन आत्मभावभावना॑विनिवृ॒त्तिः ॥ ४.२५॥
त॒दा वि॒वे॒कनि॒म्नं कैवल्यप्राग्भा॑रं चि॒त्तम् ॥ ४.२६॥
तच्छि॒द्रेषु प्रत्ययान्तराणि सं॑स्कारे॒भ्यः ॥ ४.२७॥
हा॒नमे॒षां क्लेश॑वदु॒क्तम् ॥ ४.२८॥
प्र॒स॒ङ्ख्या॒नेऽप्यकुसीदस्य स॒र्व॒था वि॒वे॒कख्या॒तेर्धर्ममेघः॑ समा॒धिः ॥ ४.२९॥
त॒तः क्लेशकर्म॑निवृ॒त्तिः ॥ ४.३०॥
त॒दा सर्वावरणम॒ला॒पेतस्य ज्ञा॒नस्या॒न॒न्त्याज्ज्ञे॑यम॒ल्पम् ॥ ४.३१॥
त॒तः कृ॒ता॒र्था॒नां परिणामक्रमसमाप्ति॑र्गुणा॒नाम् ॥ ४.३२॥
क्ष॒ण॒प्र॒ति॒यो॒गी प॒रि॒णा॒मापरान्तनिर्ग्रा॑ह्यः क्र॒मः ॥ ४.३३॥
पु॒रु॒षार्थशू॒न्या॒नां गु॒णा॒नां प्रतिप्रसवः कै॒व॒ल्यं स्व॒रू॒पप्र॒ति॒ष्ठा॒ वा चि॒तिश॑क्तिरि॒ति ॥ ४.३४॥
॥ इति पतञ्जलि-विरचिते योग-सूत्रे चतुर्थः कैव॑ल्य-पा॒दः ॥
॥ इति श्री पातञ्जल-योग-सूत्राणि ॥
निःस्वर
॥ महर्षि पतञ्जलि प्रणीतं योगदर्शनम् ॥
॥ प्रथमोऽध्यायः ॥ ॥ समाधि-पादः ॥
अथ योगानुशासनम् ॥ १.१॥
योगश्चित्तवृत्तिनिरोधः ॥ १.२॥
तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ १.३॥
वृत्तिसारूप्यमितरत्र ॥ १.४॥
वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः ॥ १.५॥
प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥ १.६॥
प्रत्यक्षानुमानागमाः प्रमाणानि ॥ १.७॥
विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥ १.८॥
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ १.९॥
अभावप्रत्ययालम्बना वृत्तिर्निद्रा ॥ १.१०॥
अनुभूतविषयासम्प्रमोषः स्मृतिः ॥ १.११॥
अभ्यासवैराग्याभ्यां तन्निरोधः ॥ १.१२॥
तत्र स्थितौ यत्नोऽभ्यासः ॥ १.१३॥
स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥ १.१४॥
दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥ १.१५॥
तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥ १.१६॥
वितर्कविचारानन्दास्मितारूपानुगमात् सम्प्रज्ञातः ॥ १.१७॥ (स्मितास्वरूपानुगमात्, स्मितानुगमात्)
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥ १.१८॥
भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥ १.१९॥
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥ १.२०॥
तीव्रसंवेगानामासन्नः ॥ १.२१॥
मृदुमध्याधिमात्रत्वात् ततोऽपि विशेषः ॥ १.२२॥
ईश्वरप्रणिधानाद्वा ॥ १.२३॥
क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥ १.२४॥
तत्र निरतिशयं सर्वज्ञबीजम् ॥ १.२५॥ (सर्वज्ञत्वबीजम्)
स पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ १.२६॥
तस्य वाचकः प्रणवः ॥ १.२७॥
तज्जपस्तदर्थभावनम् ॥ १.२८॥
ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥ १.२९॥
व्याधिस्त्यानसंशयप्रमादालस्याविरति- भ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः ॥ १.३०॥
दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥ १.३१॥
तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ १.३२॥
मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ॥ १.३३॥
प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥ १.३४॥
विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी ॥ १.३५॥
विशोका वा ज्योतिष्मती ॥ १.३६॥
वीतरागविषयं वा चित्तम् ॥ १.३७॥
स्वप्ननिद्राज्ञानालम्बनं वा ॥ १.३८॥
यथाभिमतध्यानाद्वा ॥ १.३९॥
परमाणु परममहत्त्वान्तोऽस्य वशीकारः ॥ १.४०॥
क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥ १.४१॥
तत्र शब्दार्थज्ञानविकल्पैः सङ्कीर्णा सवितर्का समापत्तिः ॥ १.४२॥
स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥ १.४३॥
एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥ १.४४॥
सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ १.४५॥
ता एव सबीजः समाधिः ॥ १.४६॥
निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥ १.४७॥
ऋतम्भरा तत्र प्रज्ञा ॥ १.४८॥
श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥ १.४९॥
तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ॥ १.५०॥
तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥ १.५१॥
॥ इति पतञ्जलि-विरचिते योग-सूत्रे प्रथमः समाधि-पादः ॥
॥ द्वितीयोऽध्यायः ॥ ॥ साधन-पादः ॥
तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥ २.१॥
समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥ २.२॥
अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ॥ २.३॥
अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥ २.४॥
अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥ २.५॥
दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ॥ २.६॥
सुखानुशयी रागः ॥ २.७॥
दुःखानुशयी द्वेषः ॥ २.८॥
स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः ॥ २.९॥
ते प्रतिप्रसवहेयाः सूक्ष्माः ॥ २.१०॥
ध्यानहेयास्तद्वृत्तयः ॥ २.११॥
क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥ २.१२॥
सति मूले तद्विपाको जात्यायुर्भोगाः ॥ २.१३॥
ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥ २.१४॥
परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ॥ २.१५॥
हेयं दुःखमनागतम् ॥ २.१६॥
द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥ २.१७॥
प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥ २.१८॥
विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥ २.१९॥
द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥ २.२०॥
तदर्थ एव दृश्यस्यात्मा ॥ २.२१॥
कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ॥ २.२२॥
स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥ २.२३॥
तस्य हेतुरविद्या ॥ २.२४॥
तदभावात् संयोगाभावो हानं तद्दृशेः कैवल्यम् ॥ २.२५॥
विवेकख्यातिरविप्लवा हानोपायः ॥ २.२६॥
तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ॥ २.२७॥
योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिरा विवेकख्यातेः ॥ २.२८॥
यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ॥ २.२९॥
अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥ २.३०॥
जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥ २.३१॥
शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥ २.३२॥
वितर्कबाधने प्रतिपक्षभावनम् ॥ २.३३॥
वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् ॥ २.३४॥
अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ॥ २.३५॥
सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥ २.३६॥
अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥ २.३७॥
ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥ २.३८॥
अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः ॥ २.३९॥
शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः ॥ २.४०॥
सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च ॥ २.४१॥
सन्तोषादनुत्तमसुखलाभः ॥ २.४२॥
कायेन्द्रियसिद्धिरशुद्धिक्षयात् तपसः ॥ २.४३॥
स्वाध्यायाद् इष्टदेवतासम्प्रयोगः ॥ २.४४॥
समाधिसिद्धिरीश्वरप्रणिधानात् ॥ २.४५॥
स्थिरसुखम् आसनम् ॥ २.४६॥
प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ॥ २.४७॥
ततो द्वन्द्वानभिघातः ॥ २.४८॥
तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥ २.४९॥
बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥ २.५०॥
बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥ २.५१॥
ततः क्षीयते प्रकाशावरणम् ॥ २.५२॥
धारणासु च योग्यता मनसः ॥ २.५३॥
स्वविषयासम्प्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥ २.५४॥
ततः परमा वश्यतेन्द्रियाणाम् ॥ २.५५॥
॥ इति पतञ्जलि-विरचिते योग-सूत्रे द्वितीयः साधन-पादः ॥
॥ तृतीयोऽध्यायः ॥ ॥ विभूति-पादः ॥
देशबन्धश्चित्तस्य धारणा ॥ ३.१॥
तत्र प्रत्ययैकतानता ध्यानम् ॥ ३.२॥
तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥ ३.३॥
त्रयमेकत्र संयमः ॥ ३.४॥
तज्जयात्प्रज्ञालोकः ॥ ३.५॥
तस्य भूमिषु विनियोगः ॥ ३.६॥
त्रयमन्तरङ्गं पूर्वेभ्यः ॥ ३.७॥
तदपि बहिरङ्गं निर्बीजस्य ॥ ३.८॥
व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः ॥ ३.९॥
तस्य प्रशान्तवाहिता संस्कारात् ॥ ३.१०॥
सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥ ३.११॥
ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥ ३.१२॥
एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥ ३.१३॥
शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥ ३.१४॥
क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥ ३.१५॥
परिणामत्रयसंयमाद् अतीतानागतज्ञानम् ॥ ३.१६॥
शब्दार्थप्रत्ययानामितरेतराध्यासात् सङ्करस्तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम् ॥ ३.१७॥
संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् ॥ ३.१८॥
प्रत्ययस्य परचित्तज्ञानम् ॥ ३.१९॥
न च तत्सालम्बनं तस्याविषयीभूतत्वात् ॥ ३.२०॥
कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासम्प्रयोगेऽन्तर्धानम् ॥ ३.२१॥
सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ॥ ३.२२॥
मैत्र्यादिषु बलानि ॥ ३.२३॥
बलेषु हस्तिबलादीनि ॥ ३.२४॥
प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥ ३.२५॥
भुवनज्ञानं सूर्ये संयमात् ॥ ३.२६॥
चन्द्रे ताराव्यूहज्ञानम् ॥ ३.२७॥
ध्रुवे तद्गतिज्ञानम् ॥ ३.२८॥
नाभिचक्रे कायव्यूहज्ञानम् ॥ ३.२९॥
कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥ ३.३०॥
कूर्मनाड्यां स्थैर्यम् ॥ ३.३१॥
मूर्धज्योतिषि सिद्धदर्शनम् ॥ ३.३२॥
प्रातिभाद्वा सर्वम् ॥ ३.३३॥
हृदये चित्तसंवित् ॥ ३.३४॥
सत्त्वपुरुषयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः परार्थत्वात्स्वार्थसंयमात्पुरुषज्ञानम् ॥ ३.३५॥
ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥ ३.३६॥
ते समाधावुपसर्गा व्युत्थाने सिद्धयः ॥ ३.३७॥
बन्धकारणशैथिल्यात्प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ॥ ३.३८॥
उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥ ३.३९॥
समानजयाज्ज्वलनम् ॥ ३.४०॥ (समानजयात्प्रज्वलनम्)
श्रोत्राकाशयोः सम्बन्धसंयमाद्दिव्यं श्रोत्रम् ॥ ३.४१॥
कायाकाशयोः सम्बन्धसंयमाल्लघुतूल- समापत्तेश्चाकाशगमनम् ॥ ३.४२॥
बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ॥ ३.४३॥
स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः ॥ ३.४४॥
ततोऽणिमादिप्रादुर्भावः कायसम्पत्तद्धर्मानभिघातश्च ॥ ३.४५॥
रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत् ॥ ३.४६॥
ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ॥ ३.४७॥
ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥ ३.४८॥
सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ॥ ३.४९॥
तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥ ३.५०॥
स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ॥ ३.५१॥
क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥ ३.५२॥
जातिलक्षणदेशैरन्यतानवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः ॥ ३.५३॥
तारकं सर्वविषयं सर्वथाविषयमक्रमञ्चेति विवेकजं ज्ञानम् ॥ ३.५४॥
सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यमिति ॥ ३.५५॥
॥ इति पतञ्जलि-विरचिते योग-सूत्रे तृतीयो विभूति-पादः ॥
॥ चतुर्थोऽध्यायः ॥ ॥ कैवल्य-पादः ॥
जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ॥ ४.१॥
जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥ ४.२॥
निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् ॥ ४.३॥
निर्माणचित्तान्यस्मितामात्रात् ॥ ४.४॥
प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥ ४.५॥
तत्र ध्यानजमनाशयम् ॥ ४.६॥
कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् ॥ ४.७॥
ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् ॥ ४.८॥
जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् ॥ ४.९॥
तासामनादित्वं चाशिषो नित्यत्वात् ॥ ४.१०॥
हेतुफलाश्रयालम्बनैः सङ्गृहीतत्वादेषामभावे तदभावः ॥ ४.११॥
अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम् ॥ ४.१२॥
ते व्यक्तसूक्ष्मा गुणात्मानः ॥ ४.१३॥
परिणामैकत्वाद्वस्तुतत्त्वम् ॥ ४.१४॥
वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः ॥ ४.१५॥
न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् ॥ ४.१६॥
तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् ॥ ४.१७॥
सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥ ४.१८॥
न तत्स्वाभासं दृश्यत्वात् ॥ ४.१९॥
एकसमये चोभयानवधारणम् ॥ ४.२०॥
चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च ॥ ४.२१॥
चितेरप्रतिसङ्क्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् ॥ ४.२२॥
द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥ ४.२३॥
तदसङ्ख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात् ॥ ४.२४॥
विशेषदर्शिन आत्मभावभावनाविनिवृत्तिः ॥ ४.२५॥
तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥ ४.२६॥
तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥ ४.२७॥
हानमेषां क्लेशवदुक्तम् ॥ ४.२८॥
प्रसङ्ख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः ॥ ४.२९॥
ततः क्लेशकर्मनिवृत्तिः ॥ ४.३०॥
तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयमल्पम् ॥ ४.३१॥
ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् ॥ ४.३२॥
क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः ॥ ४.३३॥
पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ॥ ४.३४॥
॥ इति पतञ्जलि-विरचिते योग-सूत्रे चतुर्थः कैवल्य-पादः ॥
॥ इति श्री पातञ्जल-योग-सूत्राणि ॥
Proofread by Sunder Hattangadi, Kirk Wortman, BS Vedic accents by BS
% Text title : yogasuutra by maharShii pata.njali with and without Vedic Accents % File name : yogasuutra.itx % itxtitle : pAtanjalayogasUtrANi (sasvara) % engtitle : Patanjali Yogasutra with and without Vedic Accents % Category : sUtra, yoga % Location : doc_yoga % Sublocation : yoga % Language : Sanskrit % Subject : philosophy/hinduism/religion % Transliterated by : Accents by BS % Proofread by : Sunder Hattangadi and Kirk Wortman, BS % Description-comments : Accents from Yoga_Sutra_Full.pdf notes by Paul Harvey % Indexextra : (Scans 1, 2, 3, 4, 5, Accents 1, 2, Video 6 parts, Info, Meanings 1 (Text, Audio), 2, 3, 4, 5) % Latest update : July 15, 2024 % Send corrections to : sanskrit at cheerful dot c om % Site access : https://sanskritdocuments.org