Preliminary Texts | Sankara Texts (original) (raw)

।।श्रीः।।।।अद्वैतपञ्चरत्नम्।।नाहं देहो नेन्द्रियाण्यन्तरङ्गो नाहंकारः प्राणवर्गो न बुद्धिः।दारापत्यक्षेत्रवित्तादिदूरः साक्षी नित्यः प्रत्यगात्मा शिवोऽहम्।।1.1।।
रज्ज्वज्ञानाद्भाति रज्जौ यथाहिः स्वात्माज्ञानादात्मनो जीवभावः।आप्तोक्त्याहिभ्रान्तिनाशे स रज्जु र्जीवो नाहं देशिकोक्त्या शिवोऽहम्।।1.2।।
आभातीदं विश्वमात्मन्यसत्यं सत्यज्ञानानन्दरूपे विमोहात्।निद्रामोहात्स्वप्नवत्तन्न सत्यं शुद्धः पूर्णो नित्य एकः शिवोऽहं।।1.3।।
नाहं जातो न प्रवृद्धो न नष्टो देहस्योक्ताः प्राकृताः सर्वधर्माः।कर्तृत्वादिश्चिन्मयस्यास्ति नाहं कारस्यैव ह्यात्मनो मे शिवोऽहम्।।1.4।।
मत्तो नान्यत्किंचिदत्रास्ति विश्वं सत्यं बाह्यं वस्तु मायोपक्लृप्तम्।आदर्शान्तर्भासमानस्य तुल्यं। मय्यद्वैते भाति तस्माच्छिवोऽहम्।।1.5।।इति श्रीमत्परमहंसपरिव्राजकाचार्यस्यश्रीगोविन्दभगवत्पूज्यपादशिष्यस्यश्रीमच्छंकरभगवतः कृतौअद्वैतपञ्चरत्नं संपूर्णम्।।